ऋषिः - शन्तातिः

देवता - चन्द्रमा अथवा मन्त्रोक्ताः

छन्दः - अनुष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

ब्रू॒मो राजा॑नं॒ वरु॑णं मि॒त्रं विष्णु॒मथो॒ भग॑म्। अंशं॒ विव॑स्वन्तं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

ब्रू॒मः । राजा॑नम् । वरु॑णम् । मि॒त्रम् । विष्णु॑म् । अथो॒ इति॑ । भग॑म् । अंश॑म् । विव॑स्वन्तम् । ब्रू॒म॒ः । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.२॥


स्वर रहित मन्त्र

ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम्। अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

ब्रूमः । राजानम् । वरुणम् । मित्रम् । विष्णुम् । अथो इति । भगम् । अंशम् । विवस्वन्तम् । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥८.२॥