ऋषिः - शन्तातिः

देवता - चन्द्रमा अथवा मन्त्रोक्ताः

छन्दः - अनुष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

एत॑ देवा दक्षिण॒तः प॒श्चात्प्राञ्च॑ उ॒देत॑। पु॒रस्ता॑दुत्त॒राच्छ॒क्रा विश्वे॑ दे॒वाः स॒मेत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

आ । इ॒त॒ । दे॒वा॒ः । द॒क्षि॒ण॒तः । प॒श्चात् । प्राञ्च॑ः । उ॒त्ऽएत॑ । पु॒रस्ता॑त् । उ॒त्त॒रात् । श॒क्राः । विश्वे॑ । दे॒वाः । स॒म्ऽएत्य॑ । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.१८॥


स्वर रहित मन्त्र

एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत। पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

आ । इत । देवाः । दक्षिणतः । पश्चात् । प्राञ्चः । उत्ऽएत । पुरस्तात् । उत्तरात् । शक्राः । विश्वे । देवाः । सम्ऽएत्य । ते । नः । मुञ्चन्तु । अंहसः ॥८.१८॥