ऋषिः - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
स्वरः - पापमोचन सूक्त
अ॒राया॑न् । ब्रू॒म॒ः । रक्षां॑सि । स॒र्पान् । पु॒ण्य॒ऽज॒नान् । पि॒तॄन् । मृ॒त्यून् । एक॑ऽशतम् । ब्रू॒म॒ः । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.१६॥
अरायान् । ब्रूमः । रक्षांसि । सर्पान् । पुण्यऽजनान् । पितॄन् । मृत्यून् । एकऽशतम् । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥८.१६॥