ऋषिः - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
स्वरः - पापमोचन सूक्त
पञ्च॑ । रा॒ज्यानि॑ । वी॒रुधा॑म् । सोम॑ऽश्रेष्ठानि । ब्रू॒म॒ः । द॒र्भः । भ॒ङ्गः । यव॑ः । सह॑ः । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.१५॥
पञ्च । राज्यानि । वीरुधाम् । सोमऽश्रेष्ठानि । ब्रूमः । दर्भः । भङ्गः । यवः । सहः । ते । नः । मुञ्चन्तु । अंहसः ॥८.१५॥