ऋषिः - शन्तातिः

देवता - चन्द्रमा अथवा मन्त्रोक्ताः

छन्दः - अनुष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

य॒ज्ञं ब्रू॑मो॒ यज॑मान॒मृचः॒ सामा॑नि भेष॒जा। यजूं॑षि॒ होत्रा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

य॒ज्ञम् । ब्रू॒म॒ः। यज॑मानम् । ऋच॑ः । सामा॑नि । भे॒ष॒जा । यजूं॑षि । होत्रा॑ः । ब्रू॒म॒ः । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.१४॥


स्वर रहित मन्त्र

यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा। यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

यज्ञम् । ब्रूमः। यजमानम् । ऋचः । सामानि । भेषजा । यजूंषि । होत्राः । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥८.१४॥