ऋषिः - शन्तातिः

देवता - चन्द्रमा अथवा मन्त्रोक्ताः

छन्दः - अनुष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

आ॑दि॒त्या रु॒द्रा वस॑वो दि॒वि दे॒वा अथ॑र्वाणः। अङ्गि॑रसो मनी॒षिण॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

आ॒दि॒त्याः । रु॒द्राः । वस॑वः । दि॒वि । दे॒वाः । अथ॑र्वाणः । अङ्गि॑रसः । म॒नी॒षिण॑ः । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.१३॥


स्वर रहित मन्त्र

आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः। अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

आदित्याः । रुद्राः । वसवः । दिवि । देवाः । अथर्वाणः । अङ्गिरसः । मनीषिणः । ते । नः । मुञ्चन्तु । अंहसः ॥८.१३॥