ऋषिः - शन्तातिः

देवता - चन्द्रमा अथवा मन्त्रोक्ताः

छन्दः - अनुष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

सप्त॒र्षीन्वा इ॒दं ब्रू॑मो॒ऽपो दे॒वीः प्र॒जाप॑तिम्। पि॒तॄन्य॒मश्रे॑ष्ठान्ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

स॒प्त॒ऽऋ॒षीन् । वै । इ॒दम् । ब्रू॒म॒ः । अ॒पः । दे॒वीः । प्र॒जाऽप॑तिम् । पि॒तॄन् । य॒मऽश्रे॑ष्ठान् । ब्रू॒म॒ः । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.११॥


स्वर रहित मन्त्र

सप्तर्षीन्वा इदं ब्रूमोऽपो देवीः प्रजापतिम्। पितॄन्यमश्रेष्ठान्ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

सप्तऽऋषीन् । वै । इदम् । ब्रूमः । अपः । देवीः । प्रजाऽपतिम् । पितॄन् । यमऽश्रेष्ठान् । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥८.११॥