ऋषिः - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
स्वरः - पापमोचन सूक्त
अ॒ग्निम् । ब्रू॒म॒ः । वन॒स्पती॑न् । ओष॑धीः । उ॒त । वी॒रुध॑ः । इन्द्र॑म् । बृह॒स्पति॑म् । सूर्य॑म् । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.१॥
अग्निम् । ब्रूमः । वनस्पतीन् । ओषधीः । उत । वीरुधः । इन्द्रम् । बृहस्पतिम् । सूर्यम् । ते । नः । मुञ्चन्तु । अंहसः ॥८.१॥