atharvaveda/11/5/8

आ॑चा॒र्यस्ततक्ष॒ नभ॑सी उ॒भे इ॒मे उ॒र्वी ग॑म्भी॒रे पृ॑थि॒वीं दिवं॑ च। ते र॑क्षति॒ तप॑सा ब्रह्मचा॒री तस्मि॑न्दे॒वाः संम॑नसो भवन्ति ॥

आ॒ऽचा॒र्य᳡: । त॒त॒क्ष॒ । नभ॑सी॒ इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । उ॒र्वी इति॑ । ग॒म्भी॒रे इति॑ । पृ॒थि॒वीम् । दिव॑म् । च॒ । ते इति॑ । र॒क्ष॒ति॒ । तप॑सा । ब्र॒ह्म॒ऽचा॒री । तस्मि॑न् । दे॒वा: । सम्ऽम॑नस: । भ॒व॒न्ति॒ ॥७.८॥

ऋषिः - ब्रह्मा

देवता - ब्रह्मचारी

छन्दः - पुरोऽतिजागता विराड्जगती

स्वरः - ब्रह्मचर्य सूक्त

स्वर सहित मन्त्र

आ॑चा॒र्यस्ततक्ष॒ नभ॑सी उ॒भे इ॒मे उ॒र्वी ग॑म्भी॒रे पृ॑थि॒वीं दिवं॑ च। ते र॑क्षति॒ तप॑सा ब्रह्मचा॒री तस्मि॑न्दे॒वाः संम॑नसो भवन्ति ॥

स्वर सहित पद पाठ

आ॒ऽचा॒र्य᳡: । त॒त॒क्ष॒ । नभ॑सी॒ इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । उ॒र्वी इति॑ । ग॒म्भी॒रे इति॑ । पृ॒थि॒वीम् । दिव॑म् । च॒ । ते इति॑ । र॒क्ष॒ति॒ । तप॑सा । ब्र॒ह्म॒ऽचा॒री । तस्मि॑न् । दे॒वा: । सम्ऽम॑नस: । भ॒व॒न्ति॒ ॥७.८॥


स्वर रहित मन्त्र

आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च। ते रक्षति तपसा ब्रह्मचारी तस्मिन्देवाः संमनसो भवन्ति ॥


स्वर रहित पद पाठ

आऽचार्य᳡: । ततक्ष । नभसी इति । उभे इति । इमे इति । उर्वी इति । गम्भीरे इति । पृथिवीम् । दिवम् । च । ते इति । रक्षति । तपसा । ब्रह्मऽचारी । तस्मिन् । देवा: । सम्ऽमनस: । भवन्ति ॥७.८॥