ऋषिः - ब्रह्मा

देवता - ब्रह्मचारी

छन्दः - मध्येज्योतिरुष्णिक्त्रिष्टुप्

स्वरः - ब्रह्मचर्य सूक्त

PreviousNext
स्वर सहित मन्त्र

तानि॒ कल्प॑द् ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ऽतिष्ठत्त॒प्यमा॑नः समु॒द्रे। स स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते ॥

स्वर सहित पद पाठ

तानि॑ । कल्प॑त् । ब्र॒ह्म॒ऽचा॒री । स॒लि॒लस्य॑ । पृ॒ष्ठे । तप॑ः । अ॒ति॒ष्ठ॒त् । त॒प्यमा॑नः । स॒मु॒द्रे । सः । स्ना॒तः । ब॒भ्रुः । पि॒ङ्ग॒लः । पृ॒थि॒व्याम् । ब॒हु । रो॒च॒ते॒ ॥७.२६॥


स्वर रहित मन्त्र

तानि कल्पद् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे। स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥


स्वर रहित पद पाठ

तानि । कल्पत् । ब्रह्मऽचारी । सलिलस्य । पृष्ठे । तपः । अतिष्ठत् । तप्यमानः । समुद्रे । सः । स्नातः । बभ्रुः । पिङ्गलः । पृथिव्याम् । बहु । रोचते ॥७.२६॥