ऋषिः - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - पञ्चपदा बृहतीगर्भा विराट्शक्वरी
स्वरः - ब्रह्मचर्य सूक्त
ब्र॒ह्म॒ऽचा॒रिण॑म् । पि॒तर॑ः । दे॒व॒ऽज॒नाः । पृथ॑क् । दे॒वाः । अ॒नु॒ऽसंय॑न्ति । सर्वे॑ । ग॒न्ध॒र्वाः । ए॒न॒म् । अनु॑ । आ॒य॒न् । त्रय॑ःऽत्रिंशत् । त्रि॒ऽश॒ताः । ष॒ट्ऽस॒ह॒स्राः । सर्वा॑न् । सः । दे॒वान् । तप॑सा । पि॒प॒र्ति॒ ॥७.२॥
ब्रह्मऽचारिणम् । पितरः । देवऽजनाः । पृथक् । देवाः । अनुऽसंयन्ति । सर्वे । गन्धर्वाः । एनम् । अनु । आयन् । त्रयःऽत्रिंशत् । त्रिऽशताः । षट्ऽसहस्राः । सर्वान् । सः । देवान् । तपसा । पिपर्ति ॥७.२॥