ऋषिः - ब्रह्मा

देवता - ब्रह्मचारी

छन्दः - अनुष्टुप्

स्वरः - ब्रह्मचर्य सूक्त

PreviousNext
स्वर सहित मन्त्र

ब्र॑ह्म॒चर्ये॑ण॒ तप॑सा दे॒वा मृ॒त्युमपा॑घ्नत। इन्द्रो॑ ह ब्रह्म॒चर्ये॑ण दे॒वेभ्यः॒ स्वराभ॑रत् ॥

स्वर सहित पद पाठ

ब्र॒ह्म॒ऽचर्ये॑ण । तप॑सा । दे॒वाः । मृ॒त्युम् । अप॑ । अ॒घ्न॒त॒ । इन्द्र॑ः । ह॒ । ब्र॒ह्म॒ऽचर्ये॑ण । दे॒वेभ्य॑ः । स्व᳡ः । आ । अ॒भ॒र॒त् ॥७.१९॥


स्वर रहित मन्त्र

ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत। इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत् ॥


स्वर रहित पद पाठ

ब्रह्मऽचर्येण । तपसा । देवाः । मृत्युम् । अप । अघ्नत । इन्द्रः । ह । ब्रह्मऽचर्येण । देवेभ्यः । स्व᳡ः । आ । अभरत् ॥७.१९॥