ऋषिः - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - पुरोऽतिजागतविराड्गर्भा त्रिष्टुप्
स्वरः - ब्रह्मचर्य सूक्त
ब्र॒ह्म॒ऽचा॒री । इ॒ष्णन् । च॒र॒ति॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । तस्मि॑न् । दे॒वाः । सम्ऽम॑नसः । भ॒व॒न्ति॒ । सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । दिव॑म् । च॒ । सः । आ॒ऽचा॒र्य᳡म् । तप॑सा । पि॒प॒र्ति॒ ॥७.१॥
ब्रह्मऽचारी । इष्णन् । चरति । रोदसी इति । उभे इति । तस्मिन् । देवाः । सम्ऽमनसः । भवन्ति । सः । दाधार । पृथिवीम् । दिवम् । च । सः । आऽचार्य᳡म् । तपसा । पिपर्ति ॥७.१॥