ऋषिः - भार्गवो वैदर्भिः

देवता - प्राणः

छन्दः - अनुष्टुप्

स्वरः - प्राण सूक्त

PreviousNext
स्वर सहित मन्त्र

य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीं म॒हीम्। प॒शव॒स्तत्प्र मो॑दन्ते॒ महो॒ वै नो॑ भविष्यति ॥

स्वर सहित पद पाठ

य॒दा । प्रा॒णः । अ॒भि॒ऽअव॑र्षीत् । व॒र्षेण॑ । पृ॒थि॒वीम् । म॒हीम् । प॒शव॑ः । तत् । प्र । मो॒द॒न्ते॒ । मह॑ः । वै । न॒ः । भ॒वि॒ष्य॒ति॒ ॥६.५॥


स्वर रहित मन्त्र

यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम्। पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥


स्वर रहित पद पाठ

यदा । प्राणः । अभिऽअवर्षीत् । वर्षेण । पृथिवीम् । महीम् । पशवः । तत् । प्र । मोदन्ते । महः । वै । नः । भविष्यति ॥६.५॥