ऋषिः - भार्गवो वैदर्भिः

देवता - प्राणः

छन्दः - अनुष्टुब्गर्भा त्रिष्टुप्

स्वरः - प्राण सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒न्तर्गर्भ॑श्चरति दे॒वता॒स्वाभू॑तो भू॒तः स उ॑ जायते॒ पुनः॑। स भू॒तो भव्यं॑ भवि॒ष्यत्पि॒ता पु॒त्रं प्र वि॑वेशा॒ शची॑भिः ॥

स्वर सहित पद पाठ

अ॒न्तः । गर्भ॑ः । च॒र॒ति॒ । दे॒वता॑सु । आऽभू॑तः । भू॒तः । सः । ऊं॒ इति॑ । जा॒य॒ते॒ । पुन॑ः । सः । भू॒तः । भव्य॑म् । भ॒वि॒ष्यत् । पि॒ता । पु॒त्रम् । प्र । वि॒वे॒श॒ । शची॑भिः॥६.२०॥


स्वर रहित मन्त्र

अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः। स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥


स्वर रहित पद पाठ

अन्तः । गर्भः । चरति । देवतासु । आऽभूतः । भूतः । सः । ऊं इति । जायते । पुनः । सः । भूतः । भव्यम् । भविष्यत् । पिता । पुत्रम् । प्र । विवेश । शचीभिः॥६.२०॥