ऋषिः - भार्गवो वैदर्भिः

देवता - प्राणः

छन्दः - अनुष्टुप्

स्वरः - प्राण सूक्त

PreviousNext
स्वर सहित मन्त्र

नम॑स्ते प्राण॒ क्रन्दा॑य॒ नम॑स्ते स्तनयि॒त्नवे॑। नम॑स्ते प्राण वि॒द्युते॒ नम॑स्ते प्राण॒ वर्ष॑ते ॥

स्वर सहित पद पाठ

नम॑ः । ते॒ । प्रा॒ण॒ । क्रन्दा॑य । नम॑ः । ते॒ । स्त॒न॒यि॒त्नवे॑ । नम॑ः । ते॒ । प्रा॒ण॒ । वि॒ऽद्युते॑ । नम॑ः । ते॒ । प्रा॒ण॒ । वर्ष॑ते ॥६.२॥


स्वर रहित मन्त्र

नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे। नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते ॥


स्वर रहित पद पाठ

नमः । ते । प्राण । क्रन्दाय । नमः । ते । स्तनयित्नवे । नमः । ते । प्राण । विऽद्युते । नमः । ते । प्राण । वर्षते ॥६.२॥