ऋषिः - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - शङ्कुमत्यनुष्टुप्
स्वरः - प्राण सूक्त
प्रा॒णाय॑ । नम॑ः । यस्य॑ । सर्व॑म् । इ॒दम् । वशे॑ । यः । भू॒तः । सर्व॑स्य । ई॒श्व॒रः । यस्मि॑न् । सर्व॑म् । प्रति॑ऽस्थितम् ॥६.१॥
प्राणाय । नमः । यस्य । सर्वम् । इदम् । वशे । यः । भूतः । सर्वस्य । ईश्वरः । यस्मिन् । सर्वम् । प्रतिऽस्थितम् ॥६.१॥