ऋषिः - अथर्वा

देवता - मन्त्रोक्ताः

छन्दः -

स्वरः - ओदन सूक्त

PreviousNext
स्वर सहित मन्त्र

तत॑श्चैनम॒न्येन॑ पृ॒ष्ठेन॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। वि॒द्युत्त्वा॑ हनिष्य॒तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। दि॒वा पृ॒ष्ठेन॑। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

तत॑ः । च॒ । ए॒न॒म् । अ॒न्येन॑ । पृ॒ष्ठेन॑ । प्र॒ऽआशी॑ः । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑यः । प्र॒ऽआश्न॑न् ॥ वि॒ऽद्युत् । त्वा॒ । ह॒नि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ दि॒वा । पृ॒ष्ठेन॑ । तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒षः । वै । ओ॒द॒नः । सर्व॑ऽअङ्गः । सर्व॑ऽपरुः । सर्व॑ऽतनूः ॥ सर्व॑ऽअङ्गः । ए॒व । सर्व॑ऽपरुः । सर्व॑ऽतनूः । सम् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥४.९॥


स्वर रहित मन्त्र

ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। विद्युत्त्वा हनिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। दिवा पृष्ठेन। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥


स्वर रहित पद पाठ

ततः । च । एनम् । अन्येन । पृष्ठेन । प्रऽआशीः । येन । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ विऽद्युत् । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ दिवा । पृष्ठेन । तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥४.९॥