ऋषिः - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः -
स्वरः - ओदन सूक्त
तत॑ः । च॒ ।ए॒न॒म् । अ॒न्यया॑ । जि॒ह्वया॑ । प्र॒ऽआशी॑ः । यया॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑यः । प्र॒ऽआश्न॑न् ॥ जि॒ह्वा । ते॒ । म॒रि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ अ॒ग्नेः । जि॒ह्वया॑ ॥ तया॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तया॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒षः । वै । ओ॒द॒नः । सर्व॑ऽअङ्गः । सर्व॑ऽपरुः । सर्व॑ऽतनूः ॥ सर्व॑ऽअङ्गः । ए॒व । सर्व॑ऽपरुः । सर्व॑ऽतनूः । सम् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥४.५॥
ततः । च ।एनम् । अन्यया । जिह्वया । प्रऽआशीः । यया । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ जिह्वा । ते । मरिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ अग्नेः । जिह्वया ॥ तया । एनम् । प्र । आशिषम् । तया । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥४.५॥