ऋषिः - अथर्वा

देवता - रुद्रः

छन्दः - महाबृहती

स्वरः - रुद्र सूक्त

PreviousNext
स्वर सहित मन्त्र

स नो॑ भ॒वः परि॑ वृणक्तु वि॒श्वत॒ आप॑ इवा॒ग्निः परि॑ वृणक्तु नो भ॒वः। मा नो॒ऽभि मां॑स्त॒ नमो॑ अस्त्वस्मै ॥

स्वर सहित पद पाठ

सः । न॒ः । भ॒वः । परि॑ । वृ॒ण॒क्तु॒ । वि॒श्वत॑ः । आप॑ःऽइव । अ॒ग्निः । परि॑ । वृ॒ण॒क्तु॒ । न॒ः । भ॒वः । मा । न॒ः । अ॒भि । मां॒स्त॒ । नम॑ः । अ॒स्तु॒ । अ॒स्मै॒ ॥२.८॥


स्वर रहित मन्त्र

स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः। मा नोऽभि मांस्त नमो अस्त्वस्मै ॥


स्वर रहित पद पाठ

सः । नः । भवः । परि । वृणक्तु । विश्वतः । आपःऽइव । अग्निः । परि । वृणक्तु । नः । भवः । मा । नः । अभि । मांस्त । नमः । अस्तु । अस्मै ॥२.८॥