ऋषिः - अथर्वा

देवता - रुद्रः

छन्दः - त्र्यवसाना षट्पदा विपरीतपादलक्ष्मा त्रिष्टुप्

स्वरः - रुद्र सूक्त

PreviousNext
स्वर सहित मन्त्र

नम॑स्ते घो॒षिणी॑भ्यो॒ नम॑स्ते के॒शिनी॑भ्यः। नमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑। नम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ॥

स्वर सहित पद पाठ

नम॑ः । ते॒ । घो॒षिणी॑भ्यः । नम॑ः । ते॒ । के॒शिनी॑भ्यः । नम॑ः । नम॑ःऽकृताभ्यः । नम॑ः । स॒म्ऽभु॒ञ्ज॒तीभ्य॑ः । नम॑ः । ते॒ । दे॒व॒ । सेना॑भ्यः । स्व॒स्ति । न॒ः । अभ॑यम् । च॒ । न॒ः ॥२.३१॥


स्वर रहित मन्त्र

नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः। नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः। नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥


स्वर रहित पद पाठ

नमः । ते । घोषिणीभ्यः । नमः । ते । केशिनीभ्यः । नमः । नमःऽकृताभ्यः । नमः । सम्ऽभुञ्जतीभ्यः । नमः । ते । देव । सेनाभ्यः । स्वस्ति । नः । अभयम् । च । नः ॥२.३१॥