ऋषिः - अथर्वा

देवता - रुद्रः

छन्दः - विराड्गायत्री

स्वरः - रुद्र सूक्त

PreviousNext
स्वर सहित मन्त्र

भ॒वो दि॒वो भ॒व ई॑शे पृथि॒व्या भ॒व आ प॑प्र उ॒र्वन्तरि॑क्षम्। तस्मै॒ नमो॑ यत॒मस्यां॑ दि॒शी॒तः ॥

स्वर सहित पद पाठ

भ॒वः । दि॒वः । भ॒वः । ई॒शे॒ । पृ॒थि॒व्याः । भ॒वः । आ । प॒प्रे॒ । उ॒रु । अ॒न्तरि॑क्षम् । तस्मै॑ । नम॑ः । य॒त॒मस्या॑म् । दि॒शि । इ॒तः ॥२.२७॥


स्वर रहित मन्त्र

भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम्। तस्मै नमो यतमस्यां दिशीतः ॥


स्वर रहित पद पाठ

भवः । दिवः । भवः । ईशे । पृथिव्याः । भवः । आ । पप्रे । उरु । अन्तरिक्षम् । तस्मै । नमः । यतमस्याम् । दिशि । इतः ॥२.२७॥