ऋषिः - अथर्वा
देवता - रुद्रः
छन्दः - विराड्गायत्री
स्वरः - रुद्र सूक्त
मा । न॒ः । रु॒द्र॒ । त॒क्मना॑ । मा । वि॒षेण॑ । मा । न॒ः । सम् । स्रा॒ः । दि॒व्येन॑ । अ॒ग्निना॑ । अ॒न्यत्र॑ । अ॒स्मत् । वि॒ऽद्युत॑म् । पा॒त॒य॒ । ए॒ताम् ॥२.२६॥
मा । नः । रुद्र । तक्मना । मा । विषेण । मा । नः । सम् । स्राः । दिव्येन । अग्निना । अन्यत्र । अस्मत् । विऽद्युतम् । पातय । एताम् ॥२.२६॥