ऋषिः - अथर्वा

देवता - रुद्रः

छन्दः - त्रिपदा विषमपादलक्ष्मा महाबृहती

स्वरः - रुद्र सूक्त

PreviousNext
स्वर सहित मन्त्र

यस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑। अ॑भिपू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥

स्वर सहित पद पाठ

यस्य॑ । त॒क्मा । कासि॑का । हे॒तिः । एक॑म् । अश्व॑स्यऽइव । वृष॑णः । क्रन्द॑ः । एति॑ । अ॒भि॒ऽपू॒र्वम् । नि॒ःऽनय॑ते । नम॑ः । अ॒स्तु॒ । अ॒स्मै॒ ॥२.२२।


स्वर रहित मन्त्र

यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति। अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥


स्वर रहित पद पाठ

यस्य । तक्मा । कासिका । हेतिः । एकम् । अश्वस्यऽइव । वृषणः । क्रन्दः । एति । अभिऽपूर्वम् । निःऽनयते । नमः । अस्तु । अस्मै ॥२.२२।