ऋषिः - अथर्वा

देवता - रुद्रः

छन्दः - अनुष्टुप्

स्वरः - रुद्र सूक्त

PreviousNext
स्वर सहित मन्त्र

नम॑स्तेऽस्त्वाय॒ते नमो॑ अस्तु पराय॒ते। नम॑स्ते रुद्र॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ॥

स्वर सहित पद पाठ

नम॑ः । ते॒ । अ॒स्तु॒ । आ॒ऽय॒ते । नम॑ः । अ॒स्तु॒ । प॒रा॒ऽय॒ते । नम॑ः । ते॒ । रु॒द्र॒ । तिष्ठ॑ते । आसी॑नाय । उ॒त । ते॒ । नम॑ः ॥२.१५॥


स्वर रहित मन्त्र

नमस्तेऽस्त्वायते नमो अस्तु परायते। नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ॥


स्वर रहित पद पाठ

नमः । ते । अस्तु । आऽयते । नमः । अस्तु । पराऽयते । नमः । ते । रुद्र । तिष्ठते । आसीनाय । उत । ते । नमः ॥२.१५॥