ऋषिः - अथर्वा

देवता - रुद्रः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - रुद्र सूक्त

PreviousNext
स्वर सहित मन्त्र

धनु॑र्बिभर्षि॒ हरि॑तं हिर॒ण्ययं॑ सहस्र॒घ्नि श॒तव॑धं शिखण्डिन्। रु॒द्रस्येषु॑श्चरति देवहे॒तिस्तस्यै॒ नमो॑ यत॒मस्यां॑ दि॒शी॒तः ॥

स्वर सहित पद पाठ

धनु॑ः । बि॒भ॒र्षि॒ । हरि॑तम् । हि॒र॒ण्यय॑म् । स॒ह॒स्र॒ऽघ्नि । श॒तऽव॑धम् । शि॒ख॒ण्डि॒न् । रु॒द्रस्य॑ । इषु॑ः । च॒र॒ति॒ । दे॒व॒ऽहे॒तिः । तस्यै॑ । नम॑ः । य॒त॒मस्या॑म् । दि॒शि । इ॒तः ॥२.१२॥


स्वर रहित मन्त्र

धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्नि शतवधं शिखण्डिन्। रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्यां दिशीतः ॥


स्वर रहित पद पाठ

धनुः । बिभर्षि । हरितम् । हिरण्ययम् । सहस्रऽघ्नि । शतऽवधम् । शिखण्डिन् । रुद्रस्य । इषुः । चरति । देवऽहेतिः । तस्यै । नमः । यतमस्याम् । दिशि । इतः ॥२.१२॥