ऋषिः - अथर्वा
देवता - रुद्रः
छन्दः - परातिजागता विराड्जगती
स्वरः - रुद्र सूक्त
भवा॑शर्वौ । मृ॒डत॑म् । मा । अ॒भि । या॒त॒म् । भूत॑पती॒ इति॒ भूत॑ऽपती । पशु॑पती॒ इति॒ पशु॑ऽपती । नम॑ः । वा॒म् । प्रति॑ऽहिताम् । आऽय॑ताम् । मा । वि । स्रा॒ष्ट॒म् । मा । न॒ः । हिं॒सि॒ष्ट॒म् । द्वि॒ऽपद॑ः । मा । चतु॑ःऽपदः ॥२.१॥
भवाशर्वौ । मृडतम् । मा । अभि । यातम् । भूतपती इति भूतऽपती । पशुपती इति पशुऽपती । नमः । वाम् । प्रतिऽहिताम् । आऽयताम् । मा । वि । स्राष्टम् । मा । नः । हिंसिष्टम् । द्विऽपदः । मा । चतुःऽपदः ॥२.१॥