ऋषिः - भृग्वङ्गिराः

देवता - त्रिषन्धिः

छन्दः - विराट्पथ्या बृहती

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

उत्ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह। सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ॥

स्वर सहित पद पाठ

उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । उत्ऽआ॑राः । के॒तुऽभि॑ः । स॒ह । सर्पा॑ः । इत॑रऽजनाः । रक्षां॑सि । अ॒मित्रा॑न् । अनु॑ । धा॒व॒त॒ ॥१२.१॥


स्वर रहित मन्त्र

उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह। सर्पा इतरजना रक्षांस्यमित्राननु धावत ॥


स्वर रहित पद पाठ

उत् । तिष्ठत । सम् । नह्यध्वम् । उत्ऽआराः । केतुऽभिः । सह । सर्पाः । इतरऽजनाः । रक्षांसि । अमित्रान् । अनु । धावत ॥१२.१॥