ऋषिः - ब्रह्मा

देवता - ब्रह्मौदनः

छन्दः - अतिजागतगर्भा जगती

स्वरः - ब्रह्मौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक् सा॑दयामि। यत्का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहमिन्द्रो॑ म॒रुत्वा॒न्त्स द॑दादि॒दं मे॑ ॥

स्वर सहित पद पाठ

शु॒ध्दाः । पू॒ताः । यो॒षित॑ः । य॒ज्ञिया॑ः । इ॒माः । ब्र॒ह्मणा॑म् । हस्ते॑षु । प्र॒ऽपृ॒थक् । सा॒द॒या॒मि॒ । यत्ऽका॑मः । इ॒दम् । अ॒भि॒ऽसि॒ञ्चामि॑ । व॒ः । अ॒हम् । इन्द्र॑ः । म॒रुत्वा॑न् । सः । द॒दा॒त् । इ॒दम् । मे॒ ॥१.२७॥


स्वर रहित मन्त्र

शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक् सादयामि। यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥


स्वर रहित पद पाठ

शुध्दाः । पूताः । योषितः । यज्ञियाः । इमाः । ब्रह्मणाम् । हस्तेषु । प्रऽपृथक् । सादयामि । यत्ऽकामः । इदम् । अभिऽसिञ्चामि । वः । अहम् । इन्द्रः । मरुत्वान् । सः । ददात् । इदम् । मे ॥१.२७॥