atharvaveda/11/1/21

उ॒देहि॒ वेदिं॑ प्र॒जया॑ वर्धयैनां नु॒दस्व॒ रक्षः॑ प्रत॒रं धे॑ह्येनाम्। श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ॥

उ॒त्ऽएहि॑ । वेदि॑म् । प्र॒ऽजया॑ । व॒र्ध॒य॒ । ए॒ना॒म् । नु॒दस्व॑ । रक्ष॑: । प्र॒ऽत॒रम् । धे॒हि॒ । ए॒ना॒म् । श्रि॒या । स॒मा॒नान् । अति॑ । सर्वा॑न् । स्या॒म॒ । अ॒ध॒:ऽप॒दम् । द्वि॒ष॒त: । पा॒द॒या॒मि॒ ॥१.२१॥

ऋषिः - ब्रह्मा

देवता - ब्रह्मौदनः

छन्दः - विराड्जगती

स्वरः - ब्रह्मौदन सूक्त

स्वर सहित मन्त्र

उ॒देहि॒ वेदिं॑ प्र॒जया॑ वर्धयैनां नु॒दस्व॒ रक्षः॑ प्रत॒रं धे॑ह्येनाम्। श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ॥

स्वर सहित पद पाठ

उ॒त्ऽएहि॑ । वेदि॑म् । प्र॒ऽजया॑ । व॒र्ध॒य॒ । ए॒ना॒म् । नु॒दस्व॑ । रक्ष॑: । प्र॒ऽत॒रम् । धे॒हि॒ । ए॒ना॒म् । श्रि॒या । स॒मा॒नान् । अति॑ । सर्वा॑न् । स्या॒म॒ । अ॒ध॒:ऽप॒दम् । द्वि॒ष॒त: । पा॒द॒या॒मि॒ ॥१.२१॥


स्वर रहित मन्त्र

उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम्। श्रिया समानानति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥


स्वर रहित पद पाठ

उत्ऽएहि । वेदिम् । प्रऽजया । वर्धय । एनाम् । नुदस्व । रक्ष: । प्रऽतरम् । धेहि । एनाम् । श्रिया । समानान् । अति । सर्वान् । स्याम । अध:ऽपदम् । द्विषत: । पादयामि ॥१.२१॥