ऋषिः - ब्रह्मा

देवता - ब्रह्मौदनः

छन्दः - अतिजागतगर्भा परशाक्वरा चतुष्पदा भुरिग्जगती

स्वरः - ब्रह्मौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

स॒हस्र॑पृष्ठः श॒तधा॑रो॒ अक्षि॑तो ब्रह्मौद॒नो दे॑व॒यानः॑ स्व॒र्गः। अ॒मूंस्त॒ आ द॑धामि प्र॒जया॑ रेषयैनान्बलिहा॒राय॑ मृडता॒न्मह्य॑मे॒व ॥

स्वर सहित पद पाठ

स॒हस्र॑ऽपृष्ठः । श॒तऽधा॑रः । अक्षि॑तः । ब्र॒ह्म॒ऽओ॒द॒नः । दे॒व॒ऽयान॑ः । स्व॒ःऽगः । अ॒मून् । ते॒ । आ । द॒धा॒मि॒ । प्र॒ऽजया॑ । रे॒ष॒य॒ । ए॒ना॒न् । ब॒लि॒ऽहा॒राय॑ । मृ॒ड॒ता॒त् । मह्य॑म् । ए॒व ॥१.२०॥


स्वर रहित मन्त्र

सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः। अमूंस्त आ दधामि प्रजया रेषयैनान्बलिहाराय मृडतान्मह्यमेव ॥


स्वर रहित पद पाठ

सहस्रऽपृष्ठः । शतऽधारः । अक्षितः । ब्रह्मऽओदनः । देवऽयानः । स्वःऽगः । अमून् । ते । आ । दधामि । प्रऽजया । रेषय । एनान् । बलिऽहाराय । मृडतात् । मह्यम् । एव ॥१.२०॥