ऋषिः - ब्रह्मा

देवता - ब्रह्मौदनः

छन्दः - विराड्जगती

स्वरः - ब्रह्मौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा आप॑श्च॒रुमव॑ सर्पन्तु शु॒भ्राः। अदुः॑ प्र॒जां ब॑हु॒लान्प॒शून्नः॑ प॒क्तौद॒नस्य॑ सु॒कृता॑मेतु लो॒कम् ॥

स्वर सहित पद पाठ

शु॒ध्दाः । पू॒ताः । यो॒षित॑ः । य॒ज्ञिया॑ः । इ॒माः । आप॑ः । च॒रुम् । अव॑ । स॒र्प॒न्तु॒ । शु॒भ्राः । अदु॑ः । प्र॒ऽजाम् । ब॒हु॒लान् । प॒शून् । न॒ः । प॒क्ता । ओ॒द॒नस्य॑ । सु॒ऽकृता॑म् । ए॒तु॒ । लो॒कम् ॥१.१७॥


स्वर रहित मन्त्र

शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः। अदुः प्रजां बहुलान्पशून्नः पक्तौदनस्य सुकृतामेतु लोकम् ॥


स्वर रहित पद पाठ

शुध्दाः । पूताः । योषितः । यज्ञियाः । इमाः । आपः । चरुम् । अव । सर्पन्तु । शुभ्राः । अदुः । प्रऽजाम् । बहुलान् । पशून् । नः । पक्ता । ओदनस्य । सुऽकृताम् । एतु । लोकम् ॥१.१७॥