ऋषिः - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - ब्रह्मौदन सूक्त
अग्ने॑ । च॒रुः । य॒ज्ञिय॑ः । त्वा॒ । अधि॑ । अ॒रु॒क्ष॒त् । शुचि॑ः । तपि॑ष्ठः । तप॑सा । त॒प॒ । ए॒न॒म् । आ॒र्षे॒याः । दै॒वाः । अ॒भि॒ऽसं॒गत्य॑ । भा॒गम् । इ॒मम् । तपि॑ष्ठाः । ऋ॒तुऽभि॑ः । त॒प॒न्तु॒ ॥१.१६॥
अग्ने । चरुः । यज्ञियः । त्वा । अधि । अरुक्षत् । शुचिः । तपिष्ठः । तपसा । तप । एनम् । आर्षेयाः । दैवाः । अभिऽसंगत्य । भागम् । इमम् । तपिष्ठाः । ऋतुऽभिः । तपन्तु ॥१.१६॥