ऋषिः - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - त्रिष्टुप्
स्वरः - ब्रह्मौदन सूक्त
परा॑ । इ॒हि॒ । ना॒रि॒ । पुन॑ः । आ । इ॒हि॒ । क्षि॒प्रम् । अ॒पाम् । त्वा॒ । गो॒ऽस्थः । अधि॑ । अ॒रु॒क्ष॒त् । भरा॑य । तासा॑म् । गृ॒ह्णी॒ता॒त् । य॒त॒माः । य॒ज्ञिया॑ः । अस॑न् । वि॒ऽभाज्य॑ । धी॒री । इत॑राः । ज॒ही॒ता॒त् ॥१.१३॥
परा । इहि । नारि । पुनः । आ । इहि । क्षिप्रम् । अपाम् । त्वा । गोऽस्थः । अधि । अरुक्षत् । भराय । तासाम् । गृह्णीतात् । यतमाः । यज्ञियाः । असन् । विऽभाज्य । धीरी । इतराः । जहीतात् ॥१.१३॥