ऋषिः - अथर्वा

देवता - शतौदना (गौः)

छन्दः - अनुष्टुप्

स्वरः - शतौदनागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

ये ते॑ देवि शमि॒तारः॑ प॒क्तारो॒ ये च॑ ते॒ जनाः॑। ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ मैभ्यो॑ भैषीः शतौदने ॥

स्वर सहित पद पाठ

ये । ते॒ । दे॒वि॒ । श॒मि॒तार॑ः । प॒क्तार॑ः । ये । च॒ । ते॒ । जना॑ः । ते । त्वा॒ । सर्वे॑ । गो॒प्स्य॒न्ति॒ । मा । ए॒भ्य॒ः । भै॒षी॒ः । श॒त॒ऽओ॒द॒ने॒ ॥९.७॥


स्वर रहित मन्त्र

ये ते देवि शमितारः पक्तारो ये च ते जनाः। ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥


स्वर रहित पद पाठ

ये । ते । देवि । शमितारः । पक्तारः । ये । च । ते । जनाः । ते । त्वा । सर्वे । गोप्स्यन्ति । मा । एभ्यः । भैषीः । शतऽओदने ॥९.७॥