ऋषिः - अथर्वा

देवता - शतौदना (गौः)

छन्दः - अनुष्टुप्

स्वरः - शतौदनागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

स स्व॒र्गमा रो॑हति॒ यत्रा॒दस्त्रि॑दि॒वं दि॒वः। अ॑पू॒पना॑भिं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ॥

स्वर सहित पद पाठ

सः । स्व॒ःऽगम् । आ । रो॒ह॒ति॒ । यत्र॑ । अ॒दः । त्रि॒ऽदि॒वम् । दि॒वः । अ॒पू॒पऽना॑भिम् । कृ॒त्वा । यः । ददा॑ति । श॒तऽओ॑दनाम् ॥९.५॥


स्वर रहित मन्त्र

स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः। अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥


स्वर रहित पद पाठ

सः । स्वःऽगम् । आ । रोहति । यत्र । अदः । त्रिऽदिवम् । दिवः । अपूपऽनाभिम् । कृत्वा । यः । ददाति । शतऽओदनाम् ॥९.५॥