ऋषिः - अथर्वा

देवता - शतौदना (गौः)

छन्दः - पञ्चपदातिजागतानुष्टुब्गर्भा शक्वरी

स्वरः - शतौदनागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒पो दे॒वीर्मधु॑मतीर्घृत॒श्चुतो॑ ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि। यत्का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहं तन्मे॒ सर्वं॒ सं प॑द्यतां व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

स्वर सहित पद पाठ

अ॒पः । दे॒वीः । मधु॑ऽमतीः । घृ॒त॒ऽश्चुत॑ः । ब्र॒ह्माणा॑म् । हस्ते॑षु । प्र॒ऽपृ॒थक् । सा॒द॒या॒मि॒ । यत्ऽका॑मः । इ॒दम् । अ॒भि॒ऽसि॒ञ्चामि॑ । व॒ः । अ॒हम् । तत् । मे॒ । सर्व॑म् । सम् । प॒द्य॒ता॒म् । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥९.२७॥


स्वर रहित मन्त्र

अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि। यत्काम इदमभिषिञ्चामि वोऽहं तन्मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥


स्वर रहित पद पाठ

अपः । देवीः । मधुऽमतीः । घृतऽश्चुतः । ब्रह्माणाम् । हस्तेषु । प्रऽपृथक् । सादयामि । यत्ऽकामः । इदम् । अभिऽसिञ्चामि । वः । अहम् । तत् । मे । सर्वम् । सम् । पद्यताम् । वयम् । स्याम । पतयः । रयीणाम् ॥९.२७॥