ऋषिः - अथर्वा

देवता - शतौदना (गौः)

छन्दः - अनुष्टुप्

स्वरः - शतौदनागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

यत्ते॒ पुच्छं॒ ये ते॒ बाला॒ यदूधो॒ ये च॑ ते॒ स्तनाः॑। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥

स्वर सहित पद पाठ

यत् । ते॒ । पुच्छ॑म् । ये । ते॒ । बाला॑ः । यत् । ऊध॑ः । ये । च॒ । । ते॒ । स्तना॑ः । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पिः। अथो॒ इति॑ । मधु॑ ॥९.२२॥


स्वर रहित मन्त्र

यत्ते पुच्छं ये ते बाला यदूधो ये च ते स्तनाः। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥


स्वर रहित पद पाठ

यत् । ते । पुच्छम् । ये । ते । बालाः । यत् । ऊधः । ये । च । । ते । स्तनाः । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पिः। अथो इति । मधु ॥९.२२॥