ऋषिः - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
स्वरः - शतौदनागौ सूक्त
याः । ते॒ । ग्री॒वाः । ये । स्क॒न्धाः । याः । पृ॒ष्टीः । याः । च॒ । पर्श॑वः । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पिः। अथो॒ इति॑ । मधु॑ ॥९.२०॥
याः । ते । ग्रीवाः । ये । स्कन्धाः । याः । पृष्टीः । याः । च । पर्शवः । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पिः। अथो इति । मधु ॥९.२०॥