atharvaveda/10/9/14

यौ त॒ ओष्ठौ॒ ये नासि॑के॒ ये शृङ्गे॒ ये च॒ तेऽक्षि॑णी। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥

यौ । ते॒ । ओष्ठौ॑ । ये‍ । इति॑ । नासि॑के॒ । इति॑ । ये इति॑ । शृङ्गे॒ इति॑ । ये इति॑ । च॒ । ते॒ । अक्षि॑णी॒ इति॑ । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१४॥

ऋषिः - अथर्वा

देवता - शतौदना (गौः)

छन्दः - अनुष्टुप्

स्वरः - शतौदनागौ सूक्त

स्वर सहित मन्त्र

यौ त॒ ओष्ठौ॒ ये नासि॑के॒ ये शृङ्गे॒ ये च॒ तेऽक्षि॑णी। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥

स्वर सहित पद पाठ

यौ । ते॒ । ओष्ठौ॑ । ये‍ । इति॑ । नासि॑के॒ । इति॑ । ये इति॑ । शृङ्गे॒ इति॑ । ये इति॑ । च॒ । ते॒ । अक्षि॑णी॒ इति॑ । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१४॥


स्वर रहित मन्त्र

यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥


स्वर रहित पद पाठ

यौ । ते । ओष्ठौ । ये‍ । इति । नासिके । इति । ये इति । शृङ्गे इति । ये इति । च । ते । अक्षिणी इति । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१४॥