ऋषिः - अथर्वा

देवता - शतौदना (गौः)

छन्दः - पथ्यापङ्क्तिः

स्वरः - शतौदनागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये ये चे॒मे भूम्या॒मधि॑। तेभ्य॒स्त्वं धु॑क्ष्व सर्व॒दा क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥

स्वर सहित पद पाठ

ये । दे॒वाः । दि॒वि॒ऽसद॑ः । अ॒न्त॒रि॒क्ष॒ऽसद॑ः । च॒ । ये । ये । च॒ । इ॒मे । भूम्या॑म् । अधि॑ । तेभ्‍य॑ः । त्वम् । धु॒क्ष्व॒ । स॒र्व॒दा । क्षी॒रम् । स॒र्पिः । अथो॒ इति॑ । मधु॑ ॥९.१२॥


स्वर रहित मन्त्र

ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि। तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥


स्वर रहित पद पाठ

ये । देवाः । दिविऽसदः । अन्तरिक्षऽसदः । च । ये । ये । च । इमे । भूम्याम् । अधि । तेभ्‍यः । त्वम् । धुक्ष्व । सर्वदा । क्षीरम् । सर्पिः । अथो इति । मधु ॥९.१२॥