ऋषिः - कुत्सः

देवता - आत्मा

छन्दः - भुरिगनुष्टुप्

स्वरः - ज्येष्ठब्रह्मवर्णन सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒दं स॑वित॒र्वि जा॑नीहि॒ षड्य॒मा एक॑ एक॒जः। तस्मि॑न्हापि॒त्वमि॑च्छन्ते॒ य ए॑षा॒मेक॑ एक॒जः ॥

स्वर सहित पद पाठ

इ॒दम् । स॒वि॒त॒ः । वि । जा॒नी॒हि॒ । षट् । य॒माः । एक॑ः । ए॒क॒ऽजः । तस्मि॑न् । ह॒ । अ॒पिऽत्वम् । इ॒च्छ॒न्ते॒ । यः । ए॒षा॒म् । एक॑ः । ए॒क॒ऽजः ॥८.५॥


स्वर रहित मन्त्र

इदं सवितर्वि जानीहि षड्यमा एक एकजः। तस्मिन्हापित्वमिच्छन्ते य एषामेक एकजः ॥


स्वर रहित पद पाठ

इदम् । सवितः । वि । जानीहि । षट् । यमाः । एकः । एकऽजः । तस्मिन् । ह । अपिऽत्वम् । इच्छन्ते । यः । एषाम् । एकः । एकऽजः ॥८.५॥