ऋषिः - कुत्सः

देवता - आत्मा

छन्दः - त्रिष्टुप्

स्वरः - ज्येष्ठब्रह्मवर्णन सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑का॒मो धीरो॑ अ॒मृतः॑ स्वयं॒भू रसे॑न तृ॒प्तो न कुत॑श्च॒नोनः॑। तमे॒व वि॒द्वान्न बि॑भाय मृ॒त्योरा॒त्मानं॒ धीर॑म॒जरं॒ युवा॑नम् ॥

स्वर सहित पद पाठ

अ॒का॒मः । धीर॑ः । अ॒मृत॑ः । स्व॒य॒म्ऽभूः । रसे॑न । तृ॒प्तः । न । कुत॑ः। च॒न । ऊन॑ः । तम् । ए॒व । वि॒द्वान् । न । बि॒भा॒य॒ । मृ॒त्योः । आ॒त्मान॑म् । धीर॑म् । अ॒जर॑म् । युवा॑नम् ॥८.४४॥


स्वर रहित मन्त्र

अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः। तमेव विद्वान्न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥


स्वर रहित पद पाठ

अकामः । धीरः । अमृतः । स्वयम्ऽभूः । रसेन । तृप्तः । न । कुतः। चन । ऊनः । तम् । एव । विद्वान् । न । बिभाय । मृत्योः । आत्मानम् । धीरम् । अजरम् । युवानम् ॥८.४४॥