ऋषिः - कुत्सः

देवता - आत्मा

छन्दः - त्रिष्टुप्

स्वरः - ज्येष्ठब्रह्मवर्णन सूक्त

PreviousNext
स्वर सहित मन्त्र

द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत। तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ॥

स्वर सहित पद पाठ

द्वाद॑श । प्र॒ऽधय॑ः । च॒क्रम् । एक॑म् । त्रीणि॑ । नभ्या॑नि । कः । ऊं॒ इति॑ । तत् । चि॒के॒त॒ । तत्र॑ । आऽह॑ताः । त्रीणि॑ । श॒तानि॑ । श॒ङ्कव॑ः । ष॒ष्टिः । च॒ । खीला॑ः । अवि॑ऽचाचलाः । ये ॥८.४॥


स्वर रहित मन्त्र

द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत। तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥


स्वर रहित पद पाठ

द्वादश । प्रऽधयः । चक्रम् । एकम् । त्रीणि । नभ्यानि । कः । ऊं इति । तत् । चिकेत । तत्र । आऽहताः । त्रीणि । शतानि । शङ्कवः । षष्टिः । च । खीलाः । अविऽचाचलाः । ये ॥८.४॥