ऋषिः - कुत्सः

देवता - आत्मा

छन्दः - त्रिष्टुप्

स्वरः - ज्येष्ठब्रह्मवर्णन सूक्त

PreviousNext
स्वर सहित मन्त्र

येभि॒र्वात॑ इषि॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिशः॑ स॒ध्रीचीः॑। य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तारः॑ कत॒मे त आ॑सन् ॥

स्वर सहित पद पाठ

येभि॑ः । वात॑ः । इ॒षि॒तः । प्र॒ऽवार्ति॑ । ये । दद॑न्ते । पञ्च॑ । दिश॑ः । स॒ध्रीची॑ः । ये । आऽहु॑तिम् । अ॒ति॒ऽअम॑न्यन्त । दे॒वाः । अ॒पाम् । ने॒तार॑ः । क॒त॒मे । ते । आ॒स॒न् ॥८.३५॥


स्वर रहित मन्त्र

येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः। य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥


स्वर रहित पद पाठ

येभिः । वातः । इषितः । प्रऽवार्ति । ये । ददन्ते । पञ्च । दिशः । सध्रीचीः । ये । आऽहुतिम् । अतिऽअमन्यन्त । देवाः । अपाम् । नेतारः । कतमे । ते । आसन् ॥८.३५॥