atharvaveda/10/8/17

ये अ॒र्वाङ्मध्य॑ उ॒त वा॑ पुरा॒णं वेदं॑ वि॒द्वांस॑म॒भितो॒ वद॑न्ति। आ॑दि॒त्यमे॒व ते परि॑ वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ त्रि॒वृतं॑ च हं॒सम् ॥

ये । अ॒र्वाङ् । मध्ये॑ । उ॒त । वा॒ । पु॒रा॒णम् । वेद॑म् । वि॒द्वांस॑म् । अ॒भित॑: । वद॑न्ति । आ॒दि॒त्यम् । ए॒व । ते । परि॑ । व॒द॒न्ति॒ । सर्वे॑ । अ॒ग्निम् । द्वि॒तीय॑म् । त्रि॒ऽवृत॑म् । च॒ । हं॒सम् ॥८.१७॥

ऋषिः - कुत्सः

देवता - आत्मा

छन्दः - त्रिष्टुप्

स्वरः - ज्येष्ठब्रह्मवर्णन सूक्त

स्वर सहित मन्त्र

ये अ॒र्वाङ्मध्य॑ उ॒त वा॑ पुरा॒णं वेदं॑ वि॒द्वांस॑म॒भितो॒ वद॑न्ति। आ॑दि॒त्यमे॒व ते परि॑ वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ त्रि॒वृतं॑ च हं॒सम् ॥

स्वर सहित पद पाठ

ये । अ॒र्वाङ् । मध्ये॑ । उ॒त । वा॒ । पु॒रा॒णम् । वेद॑म् । वि॒द्वांस॑म् । अ॒भित॑: । वद॑न्ति । आ॒दि॒त्यम् । ए॒व । ते । परि॑ । व॒द॒न्ति॒ । सर्वे॑ । अ॒ग्निम् । द्वि॒तीय॑म् । त्रि॒ऽवृत॑म् । च॒ । हं॒सम् ॥८.१७॥


स्वर रहित मन्त्र

ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति। आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥


स्वर रहित पद पाठ

ये । अर्वाङ् । मध्ये । उत । वा । पुराणम् । वेदम् । विद्वांसम् । अभित: । वदन्ति । आदित्यम् । एव । ते । परि । वदन्ति । सर्वे । अग्निम् । द्वितीयम् । त्रिऽवृतम् । च । हंसम् ॥८.१७॥