atharvaveda/10/7/6

क्व प्रेप्स॑न्ती युव॒ती विरू॑पे अहोरा॒त्रे द्र॑वतः संविदा॒ने। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्यापः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

क्व᳡ । प्रेप्स॑न्ती॒ इति॑ प्र॒ऽईप्सन्ती । यु॒व॒ती इति॑ । विरू॑पे॒ इति॒ विऽरू॑पे । अ॒हो॒रा॒त्रे इति॑ । द्र॒व॒त॒: । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । यत्र॑ । प्र॒ऽईप्स॑न्ती: । अ॒भि॒ऽयन्ति॑ । आप॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.६॥

ऋषिः - अथर्वा, क्षुद्रः

देवता - स्कन्धः, आत्मा

छन्दः - त्रिष्टुप्

स्वरः - सर्वाधारवर्णन सूक्त

स्वर सहित मन्त्र

क्व प्रेप्स॑न्ती युव॒ती विरू॑पे अहोरा॒त्रे द्र॑वतः संविदा॒ने। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्यापः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

स्वर सहित पद पाठ

क्व᳡ । प्रेप्स॑न्ती॒ इति॑ प्र॒ऽईप्सन्ती । यु॒व॒ती इति॑ । विरू॑पे॒ इति॒ विऽरू॑पे । अ॒हो॒रा॒त्रे इति॑ । द्र॒व॒त॒: । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । यत्र॑ । प्र॒ऽईप्स॑न्ती: । अ॒भि॒ऽयन्ति॑ । आप॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.६॥


स्वर रहित मन्त्र

क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने। यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥


स्वर रहित पद पाठ

क्व᳡ । प्रेप्सन्ती इति प्रऽईप्सन्ती । युवती इति । विरूपे इति विऽरूपे । अहोरात्रे इति । द्रवत: । संविदाने इति सम्ऽविदाने । यत्र । प्रऽईप्सन्ती: । अभिऽयन्ति । आप: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.६॥