atharvaveda/10/7/4

क्व प्रेप्स॑न्दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व प्रेप्स॑न्पवते मात॒रिश्वा॑। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्या॒वृतः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

क्व᳡ । प्र॒ऽईप्स॑न् । दी॒प्य॒ते॒ । ऊ॒र्ध्व: । अ॒ग्नि: । क्व᳡ । प्र॒ऽईप्स॑न् । प॒व॒ते॒ । मा॒त॒रि॒श्वा॑ । यत्र॑ । प्र॒ऽईप्स॑न्ती: । अ॒भि॒ऽयन्ति॑ । आ॒ऽवृत॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.४॥

ऋषिः - अथर्वा, क्षुद्रः

देवता - स्कन्धः, आत्मा

छन्दः - अनुष्टुप्

स्वरः - सर्वाधारवर्णन सूक्त

स्वर सहित मन्त्र

क्व प्रेप्स॑न्दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व प्रेप्स॑न्पवते मात॒रिश्वा॑। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्या॒वृतः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

स्वर सहित पद पाठ

क्व᳡ । प्र॒ऽईप्स॑न् । दी॒प्य॒ते॒ । ऊ॒र्ध्व: । अ॒ग्नि: । क्व᳡ । प्र॒ऽईप्स॑न् । प॒व॒ते॒ । मा॒त॒रि॒श्वा॑ । यत्र॑ । प्र॒ऽईप्स॑न्ती: । अ॒भि॒ऽयन्ति॑ । आ॒ऽवृत॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.४॥


स्वर रहित मन्त्र

क्व प्रेप्सन्दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन्पवते मातरिश्वा। यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥


स्वर रहित पद पाठ

क्व᳡ । प्रऽईप्सन् । दीप्यते । ऊर्ध्व: । अग्नि: । क्व᳡ । प्रऽईप्सन् । पवते । मातरिश्वा । यत्र । प्रऽईप्सन्ती: । अभिऽयन्ति । आऽवृत: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.४॥