ऋषिः - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्रिष्टुप्
स्वरः - सर्वाधारवर्णन सूक्त
म॒हत् । य॒क्षम् । भुव॑नस्य । मध्ये॑ । तप॑सि । क्रा॒न्तम् । स॒लि॒लस्य॑ । पृ॒ष्ठे । तस्मि॑न् । श्र॒य॒न्ते॒ । ये । ऊं॒ इति॑ । के । च॒ । दे॒वाः । वृ॒क्षस्य॑ । स्कन्ध॑ः । प॒रित॑ःऽइव । शाखा॑ः ॥७.३८॥
महत् । यक्षम् । भुवनस्य । मध्ये । तपसि । क्रान्तम् । सलिलस्य । पृष्ठे । तस्मिन् । श्रयन्ते । ये । ऊं इति । के । च । देवाः । वृक्षस्य । स्कन्धः । परितःऽइव । शाखाः ॥७.३८॥