ऋषिः - अथर्वा, क्षुद्रः

देवता - स्कन्धः, आत्मा

छन्दः - मध्येज्योतिर्जगती

स्वरः - सर्वाधारवर्णन सूक्त

PreviousNext
स्वर सहित मन्त्र

नाम॒ नाम्ना॑ जोहवीति पु॒रा सूर्या॑त्पु॒रोषसः॑। यद॒जः प्र॑थ॒मं सं॑ब॒भूव॒ स ह॒ तत्स्व॒राज्य॑मियाय॒ यस्मा॒न्नान्यत्पर॒मस्ति॑ भू॒तम् ॥

स्वर सहित पद पाठ

नाम॑ । नाम्ना॑ । जो॒ह॒वी॒ति॒ । पु॒रा । सूर्या॑त्‌ । पु॒रा । उ॒षस॑ः । यत् । अ॒जः । प्र॒थ॒मम् । स॒म्ऽब॒भूव॑ । सः । ह॒ । तत् । स्व॒ऽराज्य॑म् । इ॒या॒य॒ । यस्मा॑त् । न । अ॒न्यत् । पर॑म् । अस्ति॑ । भू॒तम् ॥७.३१॥


स्वर रहित मन्त्र

नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः। यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान्नान्यत्परमस्ति भूतम् ॥


स्वर रहित पद पाठ

नाम । नाम्ना । जोहवीति । पुरा । सूर्यात्‌ । पुरा । उषसः । यत् । अजः । प्रथमम् । सम्ऽबभूव । सः । ह । तत् । स्वऽराज्यम् । इयाय । यस्मात् । न । अन्यत् । परम् । अस्ति । भूतम् ॥७.३१॥